|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.74. अध्यायः 074
Mahabharata - Karna Parva - Chapter Topics
अर्जुनकृतावमानाद्वनं यियासोर्युधिष्ठिरस्य कृष्णेन परिसान्त्वनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-74-0x(5017)(58609)
एतच्छ्रुत्वा पाण्डवो धर्मराजो
भ्रातुर्वाक्यं परुषं फल्गुनस्य।
उत्थाय तस्माच्छयनादुवाच
पार्थं ततो दुःखपरीतचेताः॥ 8-74-1(58610)
कृतं मया पार्थं न साधुकर्म
येन प्राप्तं व्यसनं वः सुघोरम्।
तस्माच्छिरश्छिन्धि ममैतदद्य
कुलान्तकस्याधमपूरुषस्य॥ 8-74-2(58611)
पापस्य पाप्मोहतस्य वीर
विमूढबुद्धेरलसस्य भीरोः।
वृद्धावमन्सुः परुषत्य चैव
किं ते चिरं मामनुसृज्य रूक्षम्॥ 8-74-3(58612)
गच्छाम्यहं वनमद्यैव पापः
सुखं भवान्वर्ततां मद्विहीनः।
योग्यो राजा भीमसेनो महात्मा
क्लीबस्य किं वा मम राज्यकृत्यम्॥ 8-74-4(58613)
न चापि शक्तः परुषाणि सोढुं
पुनस्तवेमानि रुषान्वितस्य।
भीमोऽस्तु राजा मम जीवितेन
न कार्यमद्यावमतस्य वीर॥ 8-74-5(58614)
इत्येवमुक्त्वा सहसोत्पपात
रुषान्वितस्तच्छयनं विहाय।
इयेष निर्गन्तुमथो वनाय
तं वासुदेवः प्रणतोऽभ्युवाच॥ 8-74-6(58615)
न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः।
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता॥ 8-74-7(58616)
ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत।
वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम्॥ 8-74-8(58617)
ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता।
मच्छन्दादवमानोऽयं कृतस्तव महीपते॥ 8-74-9(58618)
गुरूणामवमानो हि वध इत्यभिधीयते।
तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः॥ 8-74-10(58619)
व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति।
शरणं त्वां महाराज प्रतिपन्नावुभावपि॥ 8-74-11(58620)
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः।
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम्॥ 8-74-12(58621)
सत्यं ते प्रतिजानामि हतं विद्व्यद्य सूतजम्।
यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम्॥ 8-74-13(58622)
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः।
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा।
कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम्॥ 8-74-14(58623)
एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम।
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव॥ 8-74-15(58624)
मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत।
भवन्तं नावमासाद्य ह्यावां व्यसनसागरात्।
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ॥ 8-74-16(58625)
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम्।
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत॥ ॥ 8-74-17(58626)
इति श्रीमन्महाभारते कर्णपर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|